(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.94. अध्यायः 094
Mahabharata - Bhishma Parva - Chapter Topics
घटोत्कचयुद्धम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-94-0x(4176)(42916)
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्।
अभ्यधावत्सुसंक्रुद्धो भीमसेनमरिन्दमम् ॥ 6-94-1(42917)
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।
महता शरवर्षेण पाण्डवं समवाकिरत् ॥ 6-94-2(42918)
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवापिनम् ।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥ 6-94-3(42919)
तदन्तरं च संप्रेक्ष्य त्वरमामो महारथः ।
प्रसंदधे शितं बाणं गिरीणामपि दारणम् ॥ 6-94-4(42920)
तेनोरसि महाराज भीमसेनमताडयत् ।
स गाढविद्धो व्यथितः सृक्विणी परिसंलिहन् ॥ 6-94-5(42921)
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्।
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ॥ 6-94-6(42922)
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः।
अभिमन्युमुखाश्चापि पाण्डवानां महारथाः ॥ 6-94-7(42923)
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ।
संप्रेक्ष्य तान्संपततः संक्रुद्धाञ्जातसंभ्रमान् ॥ 6-94-8(42924)
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ।
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ॥ 6-94-9(42925)
संशयं परमं प्राप्तं मञ्जन्तं व्यसनार्णवे।
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ॥ 6-94-10(42926)
भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन्।
नानाविधानि शस्त्राणि विसृजन्तो महारथाः ॥ 6-94-11(42927)
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् ।
तदाऽऽचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः ॥ 6-94-12(42928)
तावकाः समवर्तन्त पाम्डवानामनीकिनीम् ।
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ॥ 6-94-13(42929)
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥ 6-94-14(42930)
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।
पाण़्डवा धार्तराष्ट्राश्च परस्परजिघांसवःक ॥ 6-94-15(42931)
एवमुक्त्वा महाबाहुर्महद्विष्फार्य कार्मुकम् ।
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥ 6-94-16(42932)
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः॥ 6-94-17(42933)
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥ 6-94-18(42934)
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत।
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्॥ 6-94-19(42935)
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥ 6-94-20(42936)
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ ।
भीमसेनो महाबाहुर्गदामादाय सत्वरम् ॥ 6-94-21(42937)
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः।
समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे। 6-94-22(42938)
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्।
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥ 6-94-23(42939)
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ।
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥ 6-94-24(42940)
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥ 6-94-25(42941)
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥ 6-94-26(42942)
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः।
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ॥ 6-94-27(42943)
अभिमन्युप्रभृतयः पाण़्डवानां महारथाःक ।
अभ्यदावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् 6-94-28(42944)
अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्यात् ॥ 6-94-29(42945)
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः।
स विष्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ॥ 6-94-30(42946)
यथा शक्रो महाराज पुरा विव्याध दानवम् ।
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ॥ 6-94-31(42947)
येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसाक । 6-94-32b`स रुद्रेण जितः पूर्वं निहतो मातरिश्वना'
तथा नीलेन निर्भिन्नः सम्यङ्भुक्तेन पत्रिणा ॥ 6-94-32(42948)
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ।
स विष्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ॥ 6-94-33(42949)
दध्रे नीलविनाशाय मतिं मतिमतां वरः।
ततः संधाय विमलान्भल्लान्कर्मारमार्जितान् ॥ 6-94-34(42950)
जघान चतुरो वाहान्पातयामास च ध्वजम्।
`सूतं चैकेन भल्लेन रथनीडादपाहरत्'
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ॥ 6-94-35(42951)
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्।
मोहितं वीक्ष्य राजानं नीलमश्मचयोपमम् ॥ 6-94-36(42952)
घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः ।
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ।
तथेतरे चाभ्यधावन्राक्षसा युद्धदुर्मदाः ॥ 6-94-38a` भीमसेनो महाबाहुर्नीलं नीलाञ्जनप्रभम्।'
आरोप्य स्वरथं वीरो दुर्योधनमपाद्रवत् ॥ 6-94-37(42953)
घटोत्कचं च संप्रेक्ष्य राक्षसं घोरदर्शनम् ॥
अभ्यधावत तेजस्वी भारज्वाजात्मजस्त्वरन् ॥ 6-94-39(42954)
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान्।
योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ।
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ॥ 6-94-40(42955)
अक्रुद्ध्यत महाकायो भैमसेनिर्घटोत्कचः।
प्रादुश्चक्रे ततो मायां घोररूपां सुदारुणाम् ॥ 6-94-41(42956)
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः।
ततस्ते तावकाः सर्वे मायया विमुखीकृताःक ॥ 6-94-42(42957)
अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले।
विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः ॥ 6-94-43(42958)
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च।
प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः ॥ 6-94-44(42959)
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः।
हयाश्चैव हयारोहाः सन्निकृत्ताः सहस्रशः ॥ 6-94-45(42960)
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति।
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥ 6-94-46(42961)
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे।
घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः ॥ 6-94-47(42962)
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ।
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ॥ 6-94-48(42963)
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।
शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम् ॥ 6-94-49(42964)
एवं तव बलं सर्वं हैडिम्बेन महात्मना।
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥ ॥ 6-94-50(42965)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे चतुर्नवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-94-44 द्रोणाद्रींश्चापश्यन्तेति संबन्धः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.